|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.115. अध्यायः 115
Mahabharata - Bhishma Parva - Chapter Topics
युद्धे विरक्तेन भीष्मेण युधिष्ठिरंप्रति स्ववधोद्यमचोदना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-115-0x(4232)(44092)
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय।
अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ॥ 6-115-1(44093)
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्।
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ 6-115-2(44094)
सञ्जय उवाच। 6-115-3x(4233)
कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत।
यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम् ॥ 6-115-3(44095)
गमिताः परलोकाय परमास्त्रैः किरीटिना ।
अहन्यहनि संप्राप्ते तावकानां महारथाः ॥ 6-115-4(44096)
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः ।
पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥ 6-115-5(44097)
कुरुभिः सहितं भीष्मं युध्यमानं परंतप ।
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ 6-115-6(44098)
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।
अवर्तत महारौद्रः सततं समिति क्षयः ॥ 6-115-7(44099)
तस्मिन्नयुतशो राजन्भूयशश्च परंतपः ।
भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ॥ 6-115-8(44100)
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ 6-115-9(44101)
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् ।
निरविद्यत धर्मात्मा जीविते स परंतपः ॥ 6-115-10(44102)
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे।
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ॥ 6-115-11(44103)
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ 6-115-12(44104)
भीष्म उवाच। 6-115-13x(4234)
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ 6-115-13(44105)
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत ।
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ 6-115-14(44106)
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा ।
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ 6-115-15(44107)
सञ्जय उवाच। 6-115-16x(4235)
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।
भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः ॥ 6-115-16(44108)
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः ।
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ 6-115-17(44109)
अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे ।
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥ 6-115-18(44110)
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः ।
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ 6-115-19(44111)
मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः।
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ 6-115-20(44112)
ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः।
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः ॥ 6-115-21(44113)
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् ।
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ 6-115-22(44114)
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः।
द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ 6-115-23(44115)
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः ।
भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा ॥ 6-115-24(44116)
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 6-115-25(44117)
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः ।
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ 6-115-26(44118)
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।
अभिमन्युः सहामात्यं दुर्योधमयोधयत् ॥ 6-115-27(44119)
विराटस्तु सहानीकः सहसेनं जयद्रथम् ।
वृद्धक्षत्रस्य दायादमाससाद परंतप ॥ 6-115-28(44120)
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।
भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ॥ 6-115-29(44121)
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ॥ 6-115-30(44122)
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः ।
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ 6-115-31(44123)
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् ।
राजभिः समरे पार्थमभिपेतुर्जिघांसवः ॥ 6-115-32(44124)
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे ।
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ 6-115-33(44125)
तान्यनीकान्यनीकेषु समयुध्यन्त भारत ।
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥ 6-115-34(44126)
ततस्तेषां प्रयततामन्योन्यमभिधावताम् ।
प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ॥ 6-115-35(44127)
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः ।
सिंहनादश्च सैन्यानां दारुणः समपद्यत ॥ 6-115-36(44128)
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा ।
हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ 6-115-37(44129)
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः ।
धनुषां चापि निर्घोषो दारुणः समपद्यत ॥ 6-115-38(44130)
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।
रथघोषश्च संजज्ञे सेनयोरुभयोरपि ॥ 6-115-39(44131)
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् ।
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ 6-115-40(44132)
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।
कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ॥ 6-115-41(44133)
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह।
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ 6-115-42(44134)
तयोः समागमो घोरो बभूव युधि भारत।
अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ॥ ॥ 6-115-43(44135)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे पञ्चादशाधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-115-10 निरविद्यत निर्वेदं जगाम ॥ 6-115-14 निर्विण्यो विरक्तः ॥ 6-115-21 ब्रह्मलोकपराः बृहत्त्वान्महान्तं लोकं प्रति यतमानाः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|